Lyrics

पूज्याय राघवेन्द्राय सत्यधर्मरताय च भजतां कल्पवृक्षाय नमतां कामधेनवे दुर्वादिध्वान्तरवये वैष्णवेन्दीवरेन्दवे श्रीराघवेन्द्रगुरवे नमोऽत्यन्त दयालवे श्री सुधीन्द्राब्धि संभूतान् राघवेन्द्रकलानिधीन् सेवे सत्ज्ञानसौख्यार्थं सन्तापत्रयशान्तये अघं द्रावयते यस्मात् वेङ्कारो वाञ्छितप्रदः राघवेन्द्रयतिस्तस्मात् लोके ख्यातो भविष्यति व्यासेन व्युप्तबीजः श्रुतिभुवि भगवत्पादलब्धाङ्कुरश्रीः ब्रध्नैरीषत्प्रभिन्नोऽजनि जयमुनिना सम्यगुद्भिन्नशाखः मौनीशव्यासराजादुदितकिसलयःपुष्पितोऽयं जयीन्द्रा- दद्य श्री राघवेन्द्रात् विलसति फलितो मध्वसिद्धान्तशाखी अणु राघवेन्द्रस्तोत्रम् सम्पूर्णम्
Writer(s): Narasimha Nayak Lyrics powered by www.musixmatch.com
instagramSharePathic_arrow_out