Lyrics

॥ भवानीभुजङ्गप्रयातस्तोत्रम् ॥ श्री गणेशाय नमः । षडाधारपङ्केरुहान्तर्विराजत् सुषुम्नान्तरालेऽतितेजोल्लसन्तीम् । सुधामण्डलं द्रावयन्तीं पिबन्तीं सुधामूर्तिमीडेऽहमानन्दरूपाम् ॥ १॥ ज्वलत्कोटिबालार्कभासारुणाङ्गीं सुलावण्यशृङ्गारशोभाभिरामाम् । महापद्मकिञ्जल्कमध्ये विराजत् त्रिकोणोल्लसन्तीं भजे श्रीभवानीम् ॥२॥ कणत्किङ्किणीनूपुरोद्भासिरत्न प्रभालीढलाक्षार्द्रपादारविन्दम् । अजेशाच्युताद्यैः सुरैः सेव्यमानं महादेवि मन्मूर्ध्नि ते भावयामि ॥ ३॥ सुषोणाम्बराबद्धनीवीविराजन् महारत्नकाञ्चीकलापं नितम्बम् । स्फुरद्दक्षिणावर्तनाभिं च तिस्रो वली रम्यते रोमराजिं भजेऽहम् ॥ ४ ll लसद्वृत्तमुत्तुङ्गमाणिक्यकुम्भो- पमश्रीस्तनद्वन्द्वमम्बांबुजाक्षीम् । भजे पूर्णदुग्धाभिरामं तवेदं महाहारदीप्तं सदा प्रस्नुतास्यम् ॥ ५॥ शिरीषप्रसूनोल्लसद्बाहुदण्डैर्- ज्वलद्बाणकोदण्डपाशाङ्कुशैश्च । चलत्कङ्कणोदारकेयूरभूषा ज्वलद्भिः स्फुरन्तीं भजे श्रीभवानीम् ॥ ६॥ शरत्पूर्णचन्द्रप्रभापूर्णबिम्बा धरस्मेरवक्त्रारविन्दश्रियं ते । सुरत्नावलीहारताटङ्कशोभा भजे सुप्रसन्नामहं श्रीभवानीम् ॥ ७॥ सुनासापुटं पद्मपत्रायताक्षं यजन्तः श्रियं दानदक्षं कटाक्षम् । ललाटोल्लसद्गन्धकस्तूरिभूषो- ज्ज्वलद्भिः स्फुरन्तीं भजे श्रीभवानीम् ॥ ८॥ चलत्कुण्डलां ते भ्रमद्भृङ्गवृन्दां घनस्निग्धधम्मिल्लभूषोज्ज्वलन्तीम् । स्फुरन्मौलिमाणिक्यमध्येन्दुरेखा विलासोल्लसद्दिव्यमूर्धानमीडे ॥ ९॥ स्फुरत्वम्ब बिम्बस्य मे हृत्सरोजे सदा वाङ्मयं सर्वतेजोमयं च । इति श्रीभवानीस्वरूपं तदेवं प्रपञ्चात्परं चातिसूक्ष्मं प्रसन्नम् ॥ १०॥ गणेशाणिमाद्याखिलैः शक्तिवृन्दैः स्फुरच्छ्रीमहाचक्रराजोल्लसन्तीम् । परां राजराजेश्वरीं त्वा भवानीं (त्रैपुरि त्वां) शिवाङ्कोपरिस्थाॅं शिवाॅं भावयेऽहम् ॥ ११॥ त्वमर्कस्त्वमग्निस्त्वमिन्दुस्त्वमाप- स्त्वमाकाशभूर्वायवस्त्वं चिदात्मा । त्वदन्यो न कश्चित्प्रकाशोऽस्ति सर्वं सदानन्दसंवित्स्वरूपं तवेदम् ॥ १२॥ गुरुस्त्वं शिवस्त्वं च शक्तिस्त्वमेव त्वमेवासि माता पिताऽसि त्वमेव । त्वमेवासि विद्या त्वमेवासि बुद्धिर्- गतिर्मे मतिर्देवि सर्वं त्वमेव ॥ १३॥ श्रुतीनामगम्यं सुवेदागमाद्यैर्- महिम्नो न जानाति पारं तवेदम् । स्तुतिं कर्तुमिच्छामि ते त्वं भवानि क्षमस्वेदमम्ब प्रमुग्धः किलाहम् ॥ १४॥ शरण्ये वरेण्ये सुकारुण्यपूर्णे हिरण्योदराद्यैरगम्येऽतिपुण्ये । भवारण्यभीतं च मां पाहि भद्रे नमस्ते नमस्ते नमस्ते भवानि ॥ १५॥ इमामन्वहं श्रीभवानीभुजङ्ग- स्तुतिर्यः पठेच्छ्रोतुमिच्छेत तस्मै । स्वकीयं पदं शाश्वतं चैव सारं श्रियं चाष्टसिद्धिं भवानी ददाति ॥ १६॥ (भवानी भवानी भवानी त्रिवारम्- उदारम् मुदा सर्वदा ये जपन्ति । न शोकम् न मोहम् न पापं न भीतिः कदाचित्कथंचित्कुतश्चज्जनानाम् ॥ १७) इति श्रीमच्छङ्कराचार्यविरचितं भवानीभुजङ्गप्रयातस्तोत्रं सम्पूर्णम् ॥
Writer(s): Ruban Lyrics powered by www.musixmatch.com
instagramSharePathic_arrow_out