Top Songs By Pujya Bhaishri Rameshbhai Oza
Similar Songs
Lyrics
बिल्वाष्टकम्
त्रिदलं त्रिगुणाकारं त्रिनेत्रं च त्रयायुधम्
त्रिजन्मपाप-संहारम् एकबिल्वं शिवार्पणम्
त्रिशाखैर्बिल्वपत्रैश्च ह्यच्छिद्रै: कोमलै: शुभै:
शिवपूजां करिष्यामि ह्येकबिल्वं शिवार्पणम्
अखण्डबिल्वपत्रेण पूजिते नन्दिकेश्वरे
शुद्धयन्ति सर्वपापेभ्यो ह्येकबिल्वं शिवार्पणम्
शालिग्रामशिलमेकां विप्राणां जातु अर्पयेत्
सोमयज्ञ-महापुण्यम् एकबिल्वं शिवार्पणम्
दन्तिकोटिसहस्त्राणि वाजपेयशतानि च
कोटिकन्या-महादानम् एकबिल्वं शिवार्पणम्
लक्ष्म्या: स्तनत उत्पन्नं महादेवस्य च प्रियम्
बिल्ववृक्षं प्रयच्छामि ह्येकबिल्वं शिवार्पणम्
दर्शनं बिल्ववृक्षस्य स्पर्शनं पापनाशनम्
अघोरपापसंहारम् एकबिल्वं शिवार्पणम्
मूलतो ब्रह्मरूपाय, मध्यतो विष्णुरूपिणे
अग्रत: शिवरूपाय ह्येकबिल्वं शिवार्पणम्
बिल्वाष्टकमिदं पुण्यं य: पठेच्छिवसन्निधौ
सर्वपापविनिर्मुक्त: शिवलोकमवाप्नुयात्
इति बिल्वाष्टकं सम्पूर्णम्
Writer(s): Pujya Bhaishree Rameshbhai Ojha
Lyrics powered by www.musixmatch.com